(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.176. अध्यायः 176
Mahabharata - Udyoga Parva - Chapter Topics
अम्बांप्रति तापसेषु चिन्तयत्सु होत्रवाहनाम्नोऽम्बामातामहस्य तत्रागमनम् ॥ 1 ॥ तेनाम्बायाः परशुरामंप्रति शरणागतिचोदना ॥ 2 ॥ तत्र यदृच्छासमागते अकृतव्रणनाम्नि महर्षौ अम्बया स्ववृत्तन्तनिवेदनम् ॥ 3 ॥


Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-176-0x(3886)(37879)
ततस्ते तापसाः सर्वे कार्यवन्तोऽभवंस्तदा।
तां कन्यां चिन्तयन्तस्ते किंकार्यमिति धर्मिणः ॥ 5-176-1(37880)
केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।
केचिदस्यदुमालम्भे मतिं चक्रुर्हि तापसाः ॥ 5-176-2(37881)
केचित्साल्वपतिं गत्वा नियोज्यमिति मेनिरे।
नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ 5-176-3(37882)
एवं गते तु किं शक्यं भद्रे कर्तुं मनीषिभिः ।
पुनरूचुश्च तां सर्वे तापसाः संशितव्रताः ॥ 5-176-4(37883)
अलं प्रव्रजितेनेह भद्रे श्रृणु हितं वचः।
इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ 5-176-5(37884)
प्रतिपस्त्यति राजा स पिता ते यदनन्तरम् ।
तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ॥ 5-176-6(37885)
न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ।
पतिर्वापि गतिर्नार्याः पिता वा वरवर्णिनि ।
गतिः पतिः समस्थाया विषमे च पिता गतिः ॥ 5-176-7(37886)
प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।
राजपुत्र्याः प्रकृत्या चक कुमार्यास्तव भामिनि ॥ 5-176-8(37887)
भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।
आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥ 5-176-9(37888)
ततस्त्वन्येऽब्रुवन्वाक्यं तापसास्तां तपस्विनीम् ॥ 5-176-10(37889)
त्वामिहैकाकिनीं दृष्ट्वा निर्जने गहने वने।
प्रार्थयिष्यन्तिराजानस्तस्मान्मैवं मनः कृथाः ॥ 5-176-11(37890)
अम्बोवाच। 5-176-12x(3887)
न शक्यं काशिनगरं पुनर्गन्तुं पितुर्गृहान्।
अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ 5-176-12(37891)
उषितास्मि तथा बाल्ये पितुर्वेश्मनि तापसाः ।
नाहं गमिष्ये भद्रं वस्तत्र यत्र पिता मम।
तपस्तप्तुमभीप्सामि तापसैः परिरक्षिता ॥ 5-176-13(37892)
यथा परेऽपि मे लोके न स्यादेवं महात्ययः ।
दौर्भाग्यं तापसश्रेष्ठास्तस्मात्तप्स्याम्यहं तपः ॥ 5-176-14(37893)
भीष्म उवाच। 5-176-15x(3888)
इत्येवं तेषु विप्रेषु चिन्तयन्सु यथातथम्।
राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ।
`तां तथा भाविनीं दृष्ट्वा श्रुत्वा चोद्विग्रमानसः' 5-176-15(37894)
ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।
पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ 5-176-16(37895)
तस्योपविष्टस्य सतो विश्रान्तस्योपश्रृण्वतः।
पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ 5-176-17(37896)
अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत।
राजर्षिः स महातेजा बभूवोद्विग्रमानसः ॥ 5-176-18(37897)
तां तथावादिनीं श्रुत्वा दृष्ट्वा च स महातपाः ।
राजर्षिः कृपयाविष्टो महात्मा होत्रवाहनः ॥ 5-176-19(37898)
स वेपमान उत्थाय मातुस्तस्याः पिता तदा।
तां कन्यामङ्कमारोप्य पर्यश्वासयत प्रभो ॥ 5-176-20(37899)
स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।
सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ 5-176-21(37900)
ततः स राजर्षिरभूद्दुःखशोकसमन्वितः।
कार्यं च प्रतिपेदे तन्मनसां सुमहातपाः ॥ 5-176-22(37901)
अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।
मा गाः पितुर्गृहं भद्रे मातुस्ते जनको ह्यहम् ॥ 5-176-23(37902)
दुःखं छिन्द्यामहं ते वै मयि वर्तस्व पुत्रिके।
पर्याप्तं ते मनो वत्से यदेवं परिशुष्यसि ॥ 5-176-24(37903)
गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।
रामस्ते सुमहद्दुःखं शोकं चैवापनेष्यति ॥ 5-176-25(37904)
हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ।
तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ॥ 5-176-26(37905)
प्रतिष्ठापयिता स त्वां समे पथि महातपाः ।
ततस्तु सुस्वरं बाष्पसुत्सृजन्ती पुनः पुनः ॥ 5-176-27(37906)
अब्रवीत्पितरं मातुः मा तदा होत्रवाहनम् ।
अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ॥ 5-176-28(37907)
अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ।
कथं च तीव्रं दुःकं मे नाशकयिष्यति भार्गवः।
एतदिच्छाम्यहं ज्ञातुं यथा यास्यमि तत्र वैः ॥ 5-176-29(37908)
होत्रवाहन उवाच। 5-176-30x(3889)
रामं द्रक्ष्यसि भद्रे त्वं जामदग्न्यं महावने।
उग्रे तपसि वर्तन्तं सत्यसन्धं महाबलम् ॥ 5-176-30(37909)
महेन्द्रं वै गिरिश्रेष्ठं रामो नित्यमुपास्ति ह।
ऋषयो वेदविद्वांसो गन्धर्वाप्सरसस्तथा ॥ 5-176-31(37910)
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम।
अभिवाद्य च तं मूंर्ध्ना तपोवृद्धं दृढव्रतम् ॥ 5-176-32(37911)
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् ।
मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति ॥ 5-176-33(37912)
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे।
जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ 5-176-34(37913)
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने ।
अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥ 5-176-35(37914)
ततस्ते मनुयः सर्वे समुत्तस्थुः महस्रशः ।
स च राजा वयोवृद्धः सृञ्ययो होत्रवाहनः ॥ 5-176-36(37915)
ततो दृष्ट्वा कृतातिथ्यमन्योन्यं ते वनौकसः ।
सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ 5-176-37(37916)
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः ।
धन्या दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ 5-176-38(37917)
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः ।
रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ 5-176-39(37918)
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् ।
अकृतव्रण शक्यो वै द्रुष्टुं वेदविदां वर ॥ 5-176-40(37919)
अकृतव्रण उवाच। 5-176-41x(3890)
भवन्तमेव सततं रामः कीर्तयति प्रभो।
सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ 5-176-41(37920)
इह रामः प्रभाते श्वो भवितेति मतिर्मम।
द्रष्टस्येनमिहायान्तं तव दर्शनकाङ्क्षया॥ 5-176-42(37921)
इयं च कन्या राजर्षे किमर्थं वनमागता।
कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ 5-176-43(37922)
होत्रवाहन उवाच। 5-176-44x(3891)
दौहित्रीयं मम विभो काशिराजसुता प्रिया।
ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानध ॥ 5-176-44(37923)
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता।
अम्बिकाम्बालिके कन्ये कनीयस्यौ तपोधन ॥ 5-176-45(37924)
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत्।
कन्यानिमित्तं विप्रर्षे तत्रासीदुत्सवो महान् ॥ 5-176-46(37925)
तता किल महावीर्यो भीष्मः शान्तनवो नृपान् ।
अधिक्षिप्य महातेजास्तिस्त्रः कन्या जहार ताः ॥ 5-176-47(37926)
निर्जित्य पृथिवीपालानथ भीष्मो जगाह्वयम् ।
आजगाम विशुद्धात्मा कन्याभिः सह भारतः ॥ 5-176-48(37927)
सत्यवत्यै निवेद्याथ विवाहं समनन्तरम् ।
भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ 5-176-49(37928)
तं तु वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् ।
अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ 5-176-50(37929)
मया साल्वपतिर्वीरो मनसाऽभिवृतः पतिः ।
न ममार्हसि धर्मज्ञ दातुं भ्रात्रेऽन्यमानसाम् ॥ 5-176-51(37930)
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः ।
निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ 5-176-52(37931)
अनुज्ञाता तु भीष्मेण साल्वं सौभपतिं ततः।
कन्येयं मुदिता तत्र काले वाचनमब्रवीत् ॥ 5-176-53(37932)
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय।
मनसाभिवृत्तः पूर्वं मया त्वं पार्थिवर्षम ॥ 5-176-54(37933)
प्रत्याचख्यौ च साल्वोऽस्याश्चारित्रस्याभिशङ्कितः ।
सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ 5-176-55(37934)
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात्।
अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते । 5-176-56(37935)
अम्बोवाच। 5-176-57x(3892)
भगवन्नेवमेवेह यथाह पृथिवीपतिः।
शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ 5-176-57(37936)
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन ।
अपमानभयाच्चैव व्रीडया च महामुने ॥ 5-176-58(37937)
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम ।
तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥ ॥ 5-176-59(37938)

इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-176-14 महात्ययः सुखनाशः। मम उद्धव उत्सव इति कोशः ॥ 5-176-56 उत्पत्तिं कारणम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.